Followers

Saturday, July 6, 2024

|| श्रीशिव द्वादशज्योतिर्लिंगम स्तोत्रं ||

 ||  श्रीशिव द्वादशज्योतिर्लिंगम स्तोत्रं  ||


सौराष्ट्रदेशे विशदेsतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम ।

भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ।।1।।


श्रीशैलश्रृंगे विबुधातिसंगेतुलाद्रितुंगेsपि मुदा वसन्तम ।

तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम ।।2।।


अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम ।

अकालमृत्यो: परिपक्षणार्थं वन्दे महाकालमहासुरेशम ।।3।।


कावेरिकानर्मदयो: पवित्रे समागमे सज्जनतारणाय ।

सदैव मान्धातृपुरे वसन्तमोडकारमीशं शिवमेकमीडे ।।4।।


पूर्वीत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम ।

सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ।।5।।


याम्ये सदंगे नगरेsतिरम्ये विभूषितांग विविधैश्च भोगै: ।

सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ।।6।।


महाद्रिपाश्रर्वे  च तट रमन्तं सम्पूज्यमानं सततं मुनीन्द्रै: ।

सुरासुरैर्यक्षमहोरगाद्यै: के दारमीशं शिवमेकमीडे ।।7।।


सह्याद्रिशीर्षे विमले वसन्तं गोदावरीतीरपवित्रदेशे ।

यद्दर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ।।8।।


सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यै: ।

श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ।।9।।


यं डाकिनीशकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।

सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ।।10।।


सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम ।

वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ।।11।।


इलापुरे रम्यविशालकेsस्मिन समुल्लसन्तं च जगद्वरेण्यम ।

वन्दे महोदारतरस्वभावं घृष्णे श्वराख्यं शरणं प्रपद्ये ।।12।।


ज्योतिर्मयद्वादशलिंगानां शिवात्मनां प्रोक्तमिदं क्रमेण ।

स्तोत्रं पठित्वा मनुजोsतिभक्त्या फलं तदालोक्य निजं भजेच्च ।।13।।


इति श्रीशिव द्वादशज्योतिर्लिंगम स्तोत्रं सम्पूर्णम ||

No comments:

Post a Comment